|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.326. अध्यायः 326
Mahabharata - Shanti Parva - Chapter Topics
आसुरिणा कपिलं प्रति अव्यक्तादितत्वविषयकप्रश्नः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
* युधिष्ठिर उवाच। 12-326-0x(6529)(78713)
अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ।
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः॥ 12-326-1(78714)
भीष्म उवाच। 12-326-2x(6530)
अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः।
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम्॥ 12-326-2(78715)
असुरिरुवाच। 12-326-3x(6531)
अव्यक्तव्यक्ततत्वानां निश्चयं बुद्धिनिश्चयम्।
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थितः॥ 12-326-3(78716)
किं व्यक्तं किमव्यक्तं किं व्यक्ता
व्यक्तं किमिति तत्वानि।
किमाद्यं मध्यमं च तत्वानां
किमध्यात्माधिभूतदैवतं च॥ 12-326-4(78717)
किंनु सर्गाप्ययं कति सर्गाः किं भूतं
किं भविष्यं किं भव्यं च किं ज्ञानम्।
को ज्ञाता किं बुद्धं किमप्रबुद्धं
किं बुध्यमानं कति पर्वाणि॥ 12-326-5(78718)
कति स्रोतांसि कति कर्मयोनयः
किमेकत्वं नानात्वम्।
किं सहवासं निवासं
किं विद्याविद्यमिति॥' ॥ 12-326-6(78719)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षङ्विंशत्यधिकत्रिशततमोऽध्यायः॥ 326॥
Mahabharata - Shanti Parva - Chapter Footnotes
* एतदादयस्रयोऽध्यायाः ध. पुस्तके एव वर्तन्ते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|